|
|
 |
 |
|
|
३ आरण्यकपर्व.jpg)
॥ श्रीः ॥
3.7. अध्यायः 007
Mahabharata - Vana Parva - Chapter Topics
विदुरस्य पुनरागमनेन खिद्यता दुर्योधनेन कर्णादिभिरालोचनम् ॥ 1 ॥ कर्णादिषु समालोच्य पाण्डवजिघांसया प्रस्थितेषु तदा समागतेन श्रीव्यासेन तेषां प्रतिषेधनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text
वैशम्पायन उवाच। 3-7-0x(1785)(15923)
श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम्।
धृताराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः ॥ 3-7-1(15924)
स सौबलेयमानाय्य कर्णदुःशासनौ तथा।
अब्रवीद्वचनं राजा प्रविश्याबुद्धिजं तमः ॥ 3-7-2(15925)
एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य संमतः।
विदुरः पाण्डुपुत्राणां सुहृद्विद्वान्हिते रतः ॥ 3-7-3(15926)
यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति।
पाण्डवानयने तावन्मन्त्रयध्वं हितं मम ॥ 3-7-4(15927)
अथ पश्याम्यहं पार्थान्प्राप्तानिह कथंचन।
पुनः शोषं गमिष्यामि निरसुर्निष्परिग्रहः ॥ 3-7-5(15928)
विषमुद्बन्धनं चैव शस्त्रमग्निप्रवेशनम्।
करिष्ये न हि तानृद्धान्पुनर्द्रष्टुमिहोत्सहे ॥ 3-7-6(15929)
सुकुनिरुवाच। 3-7-7x(1786)
किं बालिशमतिं राजन्नास्थितोसि विशांपते।
गतास्ते समयं कृत्वा नैतदेवं भविष्यति ॥ 3-7-7(15930)
सत्यवाक्येः स्विताः सर्वे पाण्डवा भरतषभ।
पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचिति ॥ 3-7-8(15931)
अथवा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम्।
निरस्य समयं सर्वे पणोऽस्माकं भविष्यति ॥ 3-7-9(15932)
सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः।
छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः । 3-7-10(15933)
दुःशासन उवाच। 3-7-11x(1787)
एवमेतन्महाप्राज्ञ यथा वदसि मातुल।
नित्यं हि मे कथयतस्तव बुद्धिर्विरोचते ॥ 3-7-11(15934)
कर्ण उवाच। 3-7-12x(1788)
काममीक्षामहे सर्वे दुर्योधन तवेप्सितम्।
ऐकमत्यं हि नो राजन्सर्वेषामेव लक्षये ॥ 3-7-12(15935)
[नागमिष्यन्ति ते धीरा अकृत्वा कालसंविदम्।
आगमिष्यन्ति चेन्मोहात्पुनर्द्यूतेन ताञ्जय ॥] 3-7-13(15936)
वैशम्पायन उवाच। 3-7-14x(1789)
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा।
नातिहृष्टमनाः क्षिप्रमभवत्स पराङ्मुखः ॥ 3-7-14(15937)
उपलभ्य ततः कर्णो विवृत्य नयने शुभे।
रोषाद्दुःशासनं चैव सौबलं च तमेव च ॥ 3-7-15(15938)
उवाच परमक्रुद्ध उद्यम्यात्मानमात्मना।
अथो मम मतं यत्तु तन्निबोधत भूमिपाः ॥ 3-7-16(15939)
प्रियं सर्वे करिष्यामो राज्ञः किं करवामहे।
न चास्य शक्नुमः स्थातुं प्रिये सर्वे ह्यतन्द्रिताः ॥ 3-7-17(15940)
वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः।
गच्छामः सहिता हन्तुं पाण्डवान्वनगोचरान् ॥ 3-7-18(15941)
तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम्।
निर्विवादा भविष्यन्ति धार्तराष्ट्रास्तथा वयम् ॥ 3-7-19(15942)
यावदेव परिद्यूना यावच्छोकपरायणाः।
यावन्मित्रविहीनाश्च तावद्गच्छाम माचिरम् ॥ 3-7-20(15943)
तस्यतद्वचनं श्रुत्वा पूजयन्तः पुनः पुनः।
प्रहृष्टमनसः सर्वे प्रत्यूचुः सूतजं तदा ॥ 3-7-21(15944)
एवमुक्त्वा सुसंरब्धा रथैः सर्वे पृथक्पृथक्।
निर्ययुः पाण्डवान्हन्तुं सहिताः कृतनिश्चयाः ॥ 3-7-22(15945)
तान्प्रस्थितान्परिज्ञाय कृष्णद्वैपायनः प्रभुः।
आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा ॥ 3-7-23(15946)
प्रतिषिध्याथ तान्सर्वान्भगवाँल्लोकपूजितः।
प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरम् ॥ 3-7-24(15947)
इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि सप्तमोऽध्यायः ॥ 7 ॥
Mahabharata - Vana Parva - Chapter Footnotes
3-7-2 तमो रागद्वेषात्मकं मोहम् ॥ 3-7-6 करिष्ये स्वीकरिष्ये। ऋद्धान् ऋद्धिमतः ॥ 3-7-9 पणः कार्याकार्यविवेकलक्षणो व्यवहारः ॥ 3-7-10 छिद्रं समयातिक्रमदोषम् ॥ 3-7-15 उपलभ्य दुर्योधनाशयमिति शेषः ॥ 3-7-16 उद्यम्योत्क्षिष्य। आत्मानं देहम् ॥ 3-7-17 प्रियं चिदीर्षामो नतु शक्नुमः प्रिये स्थातुमिति संबन्धः। धृतराष्ट्रेण निरुद्धत्वात् ॥ 3-7-20 परिद्यूनाः खिन्ना वर्जितविजिगीषा वा ॥ 3-7-21 बाढमित्येव ते सर्वे इति झ. फाठः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|